|
|
 |
 |
|
|
१० सौप्तिकपर्व.jpg)
॥ श्रीः ॥
10.2. अध्यायः 002
Mahabharata - Sauptika Parva - Chapter Topics
कृपेण द्रौणिम्प्रति कर्तव्योपदेशः॥ 1 ॥

Mahabharata - Sauptika Parva - Chapter Text
कृप उवाच। 10-2-0x(5264)(64016)
श्रुतं ते वचनं सर्वं हेतुयुक्तं मया विभो।
ममापि तु वचः किञ्चिच्छृणुष्वाद्य महाभुज॥ 10-2-1(64017)
आबद्धा मानुषाः सर्वे निबद्धाः कर्मणोर्द्वयोः।
दैवे पुरुषकारे च परं ताभ्यां न विद्यते॥ 10-2-2(64018)
न हि दैवेन सिध्यन्ति कार्याण्येकेन सत्तम।
न चापि कर्मणैकेन द्वाभ्यां सिद्धिस्तु योगतः॥ 10-2-3(64019)
ताभ्यामुभाभ्यां सर्वार्था निबद्धा अधमोत्तमाः।
प्रवृत्ताश्चैव दृश्यन्ते निवृत्ताश्चैव सर्वशः॥ 10-2-4(64020)
पर्जन्यः पर्वते वर्षन्किन्नु साधयते फलम्।
कृष्टे क्षेत्रे तथा वर्षन्किं न साधयते फलम्॥ 10-2-5(64021)
उत्थानं चापि दैवस्य ह्यनुत्थानं च दैवतम्।
व्यर्थं भवति सर्वत्र पूर्वस्तत्र विनिश्चयः॥ 10-2-6(64022)
सुवृष्टे च यथा देवे सम्यक् क्षेत्रे च कर्षिते।
बीजं महागुणं भूयात्तथा सिद्धिर्हि मानुषी॥ 10-2-7(64023)
तयोर्दैवं तु दुश्चिन्त्यं स्ववशेनैव वर्तते।
प्राज्ञाः पुरुषकारे तु वर्तन्ते देवमास्थिताः॥ 10-2-8(64024)
ताभ्यां सर्वे हि कार्यार्था मनुष्याणां नरर्षभ।
विचेष्टन्तः स्म दृश्यन्ते निवृत्तास्तु तथैव च॥ 10-2-9(64025)
कृतः पुरुषकारश्च सोऽपि दैवेन सिध्यति।
तथास्य कर्मणः कर्तुरभिनिर्वर्तते फलम्॥ 10-2-10(64026)
उत्थानं च मनुष्याणां दक्षाणां दैववर्जितम्।
अभलं दृश्यते लोके सम्यगप्युपपादितम्॥ 10-2-11(64027)
तत्रालसा मनुष्याणां ये भवन्त्यमनस्विनः।
उत्थानं ते विगर्हन्ति प्राज्ञानां तन्न रोचते॥ 10-2-12(64028)
प्रायशो हि कृतं कर्म नाफलं दृश्यते भुवि।
अकृत्वा च पुनर्दुःखं कर्म पश्येन्महाफलम्॥ 10-2-13(64029)
चष्टामकुर्वंल्लभते यदि किञ्चिद्यदृच्छया।
यो वा न लभते कृत्वा दुर्दर्शौ तावुभावपि॥ 10-2-14(64030)
शक्नोति जीवितुं दक्षो नालसः सुखमेधते।
दृश्यन्ते जीवलोकेऽस्मिन्दक्षाः प्रायो हितैषिणः॥ 10-2-15(64031)
यदि दक्षः समारम्भात्कर्मणो नाश्नुते फलम्।
नास्य वाच्यं भवेत्किञ्चिल्लब्धव्यं वाऽधिगच्छति॥ 10-2-16(64032)
नाकृत्वा कर्म लोके हि फलं विन्दति कर्हिचित्।
स तु वक्तव्यतां याति द्वेष्यो भवति भूयशः॥ 10-2-17(64033)
एवमेतदनादृत्य वर्तते यस्त्वतोऽन्यथा।
स करोत्यात्मनोऽनर्थानेष बुद्धिमतां नयः॥ 10-2-18(64034)
हीनं पुरुषकारेण यदि दैवेन वा पुनः।
कारणाभ्यामथैताभ्यामुत्थानमफलं भवेत्॥ 10-2-19(64035)
हीनं पुरुषकारेण कर्म त्विह न सिध्यति॥ 10-2-20(64036)
दैवतेभ्यो नमस्कृत्य यस्त्वर्थान्सम्यगीहते।
दक्षो दाक्षिण्यसम्पन्नो न स मोघैर्विहन्यते॥ 10-2-21(64037)
सम्यगीहा पुनरियं या बृद्धानुपसेवते।
आपृच्छति च यच्छ्रेयः करोति च हितं वचः॥ 10-2-22(64038)
उत्थायोत्थाय हि सदा प्रष्टव्या वृद्धसम्मताः।
ते स्म योगे परं मूलं तन्मूला सिद्धिरुच्यते॥ 10-2-23(64039)
वृद्धानां वचनं श्रुत्वा योऽभ्युत्थानं प्रयोजयेत्।
उत्थानस्य फलं सम्यक्तदा स लभतेऽचिरात्॥ 10-2-24(64040)
रागात्क्रोधाद्भयाल्लोभाद्योऽर्थानीहेत मानवः।
अनीशश्चावमानी च स शीघ्रं भ्रश्यते श्रियः॥ 10-2-25(64041)
सोयं दुर्योधनेनार्थो लुब्धेनादीर्घदर्शिना।
असमर्थः समारब्धो मूढत्वादविचिनन्तितः॥ 10-2-26(64042)
हितबुद्धीननादृत्य सम्मन्त्र्यासाधुभिः सह।
वार्यमाणोऽकरोद्वैरं पाण्डवैर्गुणवत्तरैः॥ 10-2-27(64043)
पूर्वमप्यतिदुःशीलो न धैर्यं कर्तुमर्हति।
तपत्यर्थे विपन्ने हि मित्राणां न कृतं वचः॥ 10-2-28(64044)
अनुवर्तामहे यत्तु तं वयं पापपूरुषम्।
अस्मानप्यनयस्तस्मात्प्राप्तोऽयं दारुणो महान्॥ 10-2-29(64045)
अेन तु ममाद्यापि व्यसनेनोपतापिता।
बुद्धिश्चिन्तयते किञ्चित्स्वं श्रेयो नावबुध्यते॥ 10-2-30(64046)
मुह्यता तु मनुष्येण प्रष्टव्याः सुहृदो जनाः।
तत्रास्य बुद्धिर्विनयस्तत्र श्रेयश्च पश्यति॥ 10-2-31(64047)
ततोऽस्य मूलं कार्याणां बुद्ध्या निश्चित्य वै बुधाः'।
तेऽत्र पृष्टा यथा ब्रूयुस्तत्कर्तव्यं तथा भवेत्॥ 10-2-32(64048)
ते वयं धृतराष्ट्रं च गान्धारीं च यशस्विनीम्।
उपपृच्छामहे गत्वा विदुरं च महामतिम्॥ 10-2-33(64049)
ते पृष्टास्तु वदेयुर्यच्छ्रेयो नः समनन्तरम्।
तदस्माभिः पुनः कार्यमिति मे नैष्ठिकी मतिः॥ 10-2-34(64050)
अनारम्भात्तु कार्याणां नार्थः सम्पद्यते क्वचित्॥ 10-2-35(64051)
कृते पुरुषकारे तु येषां कार्यं न सिध्यति।
दैवेनोपहतास्ते तु नात्र कार्या विचारणा॥ ॥ 10-2-36(64052)
इति श्रीमन्महाभारते सौप्तिकपर्वणि द्वितीयोऽध्यायः॥ 2 ॥
Mahabharata - Sauptika Parva - Chapter Footnotes
10-2-2 दैवे आसमन्तात् बद्धाः पुरुषकारे निहीनतया बद्धाः। तेन दैवं प्रधानं पुरुषकार उपसर्जनमित्युक्तं भवति। आरम्भा मानुषाः सर्वे इति क.पाठः॥ 10-2-6 उत्थानमिति। दैवस्य प्रधानस्योत्थानं पुरुषकारो व्यर्थं भवति तथाऽनुत्थानमुत्थानहीनं दैवमपि व्यर्थमिति पक्षद्वयं सर्वत्र व्यवस्यति तत्र पूर्वएव पक्षः श्रेयानित्यर्थः॥ 10-2-9 विचेष्टन्तः प्रवृत्ता दृश्यन्ते लोकदृष्ठ्येत्यर्थः॥ 10-2-13 कर्माकृत्वा दुःखं पश्येदित्यापि प्रायशोऽस्ति॥ 10-2-14 दुर्दर्शौ दुर्लभौ॥ 10-2-16 स्पर्शं चास्याधिगच्छतीति छ.पाठः। तत्र अस्य कर्मणः स्पर्शं लोकस्य सम्बन्धं चाधिगच्छति लोकप्रियः स्यादित्यर्थः॥ 10-2-17 अकृत्वा कर्म यो लोके फलं विन्दति धिष्ठित इति झ.पाठः। तत्र अदक्षस्तु परप्रयत्नार्जितेन जीवन्नपि भोक्तुमेवायं समर्थो नार्जयितुमिति निन्द्यत इति भावः॥ 10-2-18 एतत् दैवदाक्ष्ययोः साहित्यम्। अन्यथा तयोरन्यतरालम्बनेन॥ 10-2-23 योगे अलब्धलाभे॥ 10-2-25 अनीशः अजितचित्तः। अवमानी परमवजानन्॥ 10-2-2 द्वितीयोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|